|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.4. अध्यायः 004
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति जीवस्य गर्भवासप्रकारकथनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
धृतराष्ट्र उवाच। 11-4-0x(5318)(64883)
कथं संसारगहनं विज्ञेयं वदतां वर।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः॥ 11-4-1(64884)
विदुर उवाच। 11-4-2x(5319)
जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन्।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम्॥ 11-4-2(64885)
ततः स पञ्चमेऽतीते मासे मांसमकल्पयत्।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते॥ 11-4-3(64886)
अमेध्यमध्ये वसति मांसशोणितलेपने।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः॥ 11-4-4(64887)
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति।
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः॥ 11-4-5(64888)
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम्॥ 11-4-6(64889)
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः॥ 11-4-7(64890)
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम्।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप॥ 11-4-8(64891)
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः।
[तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा॥] 11-4-9(64892)
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः।
अयं न बुध्यते तावद्यमलोकादिहागमे॥ 11-4-10(64893)
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति।
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः॥ 11-4-11(64894)
अहो विनिकृतो लोको लोभेन च वशीकृतः।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते॥ 11-4-12(64895)
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन्।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्॥ 11-4-13(64896)
मूर्खानिति परानाह नात्मानं समवेक्षते।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति॥ 11-4-14(64897)
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः॥ 11-4-15(64898)
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः॥ 11-4-16(64899)
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्॥ 11-4-17(64900)
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः॥ 11-4-18(64901)
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम्।
[अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्।]
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्॥ 11-4-19(64902)
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर॥ ॥ 11-4-20(64903)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्थोऽध्यायः॥ 4 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-4-2 कलिलं शुकशोणितसंयोगः। एकरात्रोषितं कलिलं भवति पञ्चरात्राद्बुद्बुद इत्यादिशास्त्राद्रम्यते। तत्र कलिले वसते जीव इति शेषः। किञ्चिदन्तरं पूर्वदिनापेक्षया वृद्ध्यवस्थाभेदेन अल्पेन परिमाणान्तरेण॥ 11-4-5 पूर्वकर्मापदानत इति क.पाठः॥ 11-4-6 मृगयन्पर्यटन्नित्यं सारमेया इति ट.पाठः॥ 11-4-4 चतुर्थोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|